Original

प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि ।मनोहरक्रौञ्चनिनादितानि सीमान्तराण्य् उत्सुकयन्ति चेतः ॥

Segmented

प्रभू-शालि-प्रसवैः चितानि मृग-अङ्गना-यूथ-विभूषितानि मनोहर-क्रौञ्च-निनादितानि सीमान्तराण्य् उत्सुकयन्ति चेतः

Analysis

Word Lemma Parse
प्रभू प्रभू pos=va,comp=y,f=part
शालि शालि pos=n,comp=y
प्रसवैः प्रसव pos=n,g=m,c=3,n=p
चितानि चित pos=a,g=n,c=1,n=p
मृग मृग pos=n,comp=y
अङ्गना अङ्गना pos=n,comp=y
यूथ यूथ pos=n,comp=y
विभूषितानि विभूषय् pos=va,g=n,c=1,n=p,f=part
मनोहर मनोहर pos=a,comp=y
क्रौञ्च क्रौञ्च pos=n,comp=y
निनादितानि निनादय् pos=va,g=n,c=1,n=p,f=part
सीमान्तराण्य् सीमान्तर pos=n,g=n,c=1,n=p
उत्सुकयन्ति उत्सुकय् pos=v,p=3,n=p,l=lat
चेतः चेतस् pos=n,g=n,c=2,n=s