Original

रतिश्रमक्षामविपाण्डुवक्त्राः सम्प्राप्तहर्षाभ्युदयास् तरुण्यः ।हसन्ति नोच्चैर् दशनाग्रभिन्नान् प्रपीड्यमानान् अधरान् अवेक्ष्य ॥

Segmented

रति-श्रम-क्षाम-विपाण्डु-वक्त्राः सम्प्राप्त-हर्ष-अभ्युदय तरुण्यः हसन्ति न उच्चैस् दशन-अग्र-भिन्नान् प्रपीड्यमानान् अधरान् अवेक्ष्य

Analysis

Word Lemma Parse
रति रति pos=n,comp=y
श्रम श्रम pos=n,comp=y
क्षाम क्षाम pos=a,comp=y
विपाण्डु विपाण्डु pos=a,comp=y
वक्त्राः वक्त्र pos=n,g=f,c=1,n=p
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
हर्ष हर्ष pos=n,comp=y
अभ्युदय अभ्युदय pos=n,g=f,c=1,n=p
तरुण्यः तरुण pos=a,g=f,c=1,n=p
हसन्ति हस् pos=v,p=3,n=p,l=lat
pos=i
उच्चैस् उच्चैस् pos=i
दशन दशन pos=n,comp=y
अग्र अग्र pos=n,comp=y
भिन्नान् भिद् pos=va,g=m,c=2,n=p,f=part
प्रपीड्यमानान् प्रपीडय् pos=va,g=m,c=2,n=p,f=part
अधरान् अधर pos=n,g=m,c=2,n=p
अवेक्ष्य अवेक्ष् pos=vi