Original

केशान्नितान्तघननीलविकुञ्चिताग्रान् आपूरयन्ति वनिता नवमालतीभिः ।कर्णेषु च प्रवरकाञ्चनकुण्डलेषु नीलोत्पलानि विविधानि निवेशयन्ति ॥

Segmented

केशान् नितान्त-घन-नील-विकुञ्चित-अग्रान् आपूरयन्ति वनिता नव-मालती कर्णेषु च प्रवर-काञ्चन-कुण्डलेषु नीलोत्पलानि विविधानि निवेशयन्ति

Analysis

Word Lemma Parse
केशान् केश pos=n,g=m,c=2,n=p
नितान्त नितान्त pos=a,comp=y
घन घन pos=a,comp=y
नील नील pos=a,comp=y
विकुञ्चित विकुञ्चित pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
आपूरयन्ति आपूरय् pos=v,p=3,n=p,l=lat
वनिता वनिता pos=n,g=f,c=1,n=s
नव नव pos=a,comp=y
मालती मालती pos=n,g=f,c=3,n=p
कर्णेषु कर्ण pos=n,g=m,c=7,n=p
pos=i
प्रवर प्रवर pos=a,comp=y
काञ्चन काञ्चन pos=n,comp=y
कुण्डलेषु कुण्डल pos=n,g=n,c=7,n=p
नीलोत्पलानि नीलोत्पल pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
निवेशयन्ति निवेशय् pos=v,p=3,n=p,l=lat