Original

तृणोत्करैर् उद्गतकोमलाङ्कुरैश् चितानि नीलैर् हरिणीमुखक्षतैः ।वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर् द्रुमैः ॥

Segmented

तृण-उत्करैः उद्गत-कोमल-अङ्कुरैः चितानि नीलैः हरिणी-मुख-क्षतैः वनानि वैन्ध्यानि हरन्ति मानसम् विभूषितानि उद्गत-पल्लवैः द्रुमैः

Analysis

Word Lemma Parse
तृण तृण pos=n,comp=y
उत्करैः उत्कर pos=n,g=m,c=3,n=p
उद्गत उद्गम् pos=va,comp=y,f=part
कोमल कोमल pos=a,comp=y
अङ्कुरैः अङ्कुर pos=n,g=m,c=3,n=p
चितानि चित pos=a,g=n,c=1,n=p
नीलैः नील pos=a,g=m,c=3,n=p
हरिणी हरिणी pos=n,comp=y
मुख मुख pos=n,comp=y
क्षतैः क्षन् pos=va,g=m,c=3,n=p,f=part
वनानि वन pos=n,g=n,c=1,n=p
वैन्ध्यानि वैन्ध्य pos=a,g=n,c=1,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
मानसम् मानस pos=n,g=n,c=2,n=s
विभूषितानि विभूषय् pos=va,g=n,c=1,n=p,f=part
उद्गत उद्गम् pos=va,comp=y,f=part
पल्लवैः पल्लव pos=n,g=m,c=3,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p