Original

निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैर् अनिर्मलैः ।स्त्रियः सुदुष्टा इव जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥

Segmented

निपातयन्त्यः परितस् तट-द्रुमान् प्रवृद्ध-वेगैः सलिलैः अनिर्मलैः स्त्रियः सुदुष्टा इव जाति-विभ्रम प्रयान्ति नद्यः त्वरितम् पयोनिधिम्

Analysis

Word Lemma Parse
निपातयन्त्यः निपातय् pos=va,g=f,c=1,n=p,f=part
परितस् परितस् pos=i
तट तट pos=n,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
वेगैः वेग pos=n,g=n,c=3,n=p
सलिलैः सलिल pos=n,g=n,c=3,n=p
अनिर्मलैः अनिर्मल pos=a,g=n,c=3,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सुदुष्टा सुदुष्ट pos=a,g=f,c=1,n=p
इव इव pos=i
जाति जाति pos=n,comp=y
विभ्रम विभ्रम pos=n,g=f,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
नद्यः नदी pos=n,g=f,c=1,n=p
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
पयोनिधिम् पयोनिधि pos=n,g=m,c=2,n=s