Original

बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः ।जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥

Segmented

बहुगुण-रमणीयः कामिनी-चित्त-हारी तरु-विटप-लतानाम् बान्धवो निर्विकारः जलद-समयः एष प्राणिनाम् प्राण-भूतः दिशतु तव हितानि प्रायशो वाञ्छितानि

Analysis

Word Lemma Parse
बहुगुण बहुगुण pos=a,comp=y
रमणीयः रमणीय pos=a,g=m,c=1,n=s
कामिनी कामिनी pos=n,comp=y
चित्त चित्त pos=n,comp=y
हारी हारिन् pos=a,g=m,c=1,n=s
तरु तरु pos=n,comp=y
विटप विटप pos=n,comp=y
लतानाम् लता pos=n,g=f,c=6,n=p
बान्धवो बान्धव pos=n,g=m,c=1,n=s
निर्विकारः निर्विकार pos=a,g=m,c=1,n=s
जलद जलद pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राण प्राण pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
दिशतु दिश् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
हितानि हित pos=n,g=n,c=2,n=p
प्रायशो प्रायशस् pos=i
वाञ्छितानि वाञ्छ् pos=va,g=n,c=2,n=p,f=part