Original

जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् अयमिति जलसेकैस्तोयदास्तोयनम्राः ।अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥

Segmented

जल-भर-नमितानाम् आश्रयो ऽस्माकम् उच्चैस् अयम् इति जल-सेकैः तोयदाः तोय-नम्राः अतिशय-परुषाभिः ग्रीष्म-वह्नेः शिखाभिः समुपजनय्-तापम् ह्लादयन्ति इव विन्ध्यम्

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
भर भर pos=n,comp=y
नमितानाम् नमय् pos=va,g=m,c=6,n=p,f=part
आश्रयो आश्रय pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
उच्चैस् उच्चैस् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
जल जल pos=n,comp=y
सेकैः सेक pos=n,g=m,c=3,n=p
तोयदाः तोयद pos=n,g=m,c=1,n=p
तोय तोय pos=n,comp=y
नम्राः नम्र pos=a,g=m,c=1,n=p
अतिशय अतिशय pos=n,comp=y
परुषाभिः परुष pos=a,g=f,c=3,n=p
ग्रीष्म ग्रीष्म pos=n,comp=y
वह्नेः वह्नि pos=n,g=m,c=6,n=s
शिखाभिः शिखा pos=n,g=f,c=3,n=p
समुपजनय् समुपजनय् pos=va,comp=y,f=part
तापम् ताप pos=n,g=m,c=2,n=s
ह्लादयन्ति ह्लादय् pos=v,p=3,n=p,l=lat
इव इव pos=i
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s