Original

सितोत्पलाभाम्बुदचुम्बितोपलाः समाचिताः प्रस्रवणैः समन्ततः ।प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥

Segmented

सितोत्पल-आभ-अम्बुद-चुम्ब्-उपलाः समाचिताः प्रस्रवणैः समन्ततः प्रवृत्त-नृत्यैः शिखिभिः समाकुलाः समुत्सुक-त्वम् जनयन्ति भूधराः

Analysis

Word Lemma Parse
सितोत्पल सितोत्पल pos=n,comp=y
आभ आभ pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
चुम्ब् चुम्ब् pos=va,comp=y,f=part
उपलाः उपल pos=n,g=m,c=1,n=p
समाचिताः समाचि pos=va,g=m,c=1,n=p,f=part
प्रस्रवणैः प्रस्रवण pos=n,g=n,c=3,n=p
समन्ततः समन्ततः pos=i
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
नृत्यैः नृत्य pos=n,g=m,c=3,n=p
शिखिभिः शिखिन् pos=n,g=m,c=3,n=p
समाकुलाः समाकुल pos=a,g=m,c=1,n=p
समुत्सुक समुत्सुक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
भूधराः भूधर pos=n,g=m,c=1,n=p