Original

सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः ।विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥

Segmented

सितेषु हर्म्येषु निशासु योषिताम् सुख-प्रसुप्तानि मुखानि चन्द्रमाः विलोक्य नूनम् भृशम् उत्सुकः चिरम् निशा-क्षये याति ह्रिया इव पाण्डुताम्

Analysis

Word Lemma Parse
सितेषु सित pos=a,g=n,c=7,n=p
हर्म्येषु हर्म्य pos=n,g=n,c=7,n=p
निशासु निशा pos=n,g=f,c=7,n=p
योषिताम् योषित् pos=n,g=f,c=6,n=p
सुख सुख pos=n,comp=y
प्रसुप्तानि प्रस्वप् pos=va,g=n,c=2,n=p,f=part
मुखानि मुख pos=n,g=n,c=2,n=p
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
विलोक्य विलोकय् pos=vi
नूनम् नूनम् pos=i
भृशम् भृशम् pos=i
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
चिरम् चिरम् pos=i
निशा निशा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
याति या pos=v,p=3,n=s,l=lat
ह्रिया ह्री pos=n,g=f,c=3,n=s
इव इव pos=i
पाण्डुताम् पाण्डुता pos=n,g=f,c=2,n=s