Original

हतेषु तेषु वीरेषु भरतः कैकयीसुतः ।निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ ॥ ९ ॥

Segmented

हतेषु तेषु वीरेषु भरतः कैकयी-सुतः निवेशयामास तदा समृद्धे द्वे पुर-उत्तमे तक्षम् तक्षशिलायाम् तु पुष्करम् पुष्करावतौ

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
भरतः भरत pos=n,g=m,c=1,n=s
कैकयी कैकयी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
समृद्धे समृध् pos=va,g=n,c=2,n=d,f=part
द्वे द्वि pos=n,g=n,c=2,n=d
पुर पुर pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=2,n=d
तक्षम् तक्ष pos=n,g=m,c=2,n=s
तक्षशिलायाम् तक्षशिला pos=n,g=f,c=7,n=s
तु तु pos=i
पुष्करम् पुष्कर pos=n,g=m,c=2,n=s
पुष्करावतौ पुष्करावती pos=n,g=f,c=7,n=s