Original

दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ॥ १७ ॥

Segmented

दारुणायाम् तु वेलायाम् यस्मात् त्वम् माम् उपस्थिता शृणु तस्मात् सुतान् भद्रे यादृशान् जनयिष्यसि

Analysis

Word Lemma Parse
दारुणायाम् दारुण pos=a,g=f,c=7,n=s
तु तु pos=i
वेलायाम् वेला pos=n,g=f,c=7,n=s
यस्मात् यस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
तस्मात् तस्मात् pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
भद्रे भद्र pos=a,g=f,c=8,n=s
यादृशान् यादृश pos=a,g=m,c=2,n=p
जनयिष्यसि जनय् pos=v,p=2,n=s,l=lrt