Original

नारायणोऽपीषुवराशनीभिर्विदारयामास धनुःप्रमुक्तैः ।नक्तंचरान्मुक्तविधूतकेशान्यथाशनीभिः सतडिन्महेन्द्रः ॥ ४३ ॥

Segmented

नारायणो अपि इषु-वर-अशनि विदारयामास धनुः-प्रमुक्तैः नक्तंचरान् मुक्त-विधूत-केशान् यथा अशनि स तडित् महा-इन्द्रः

Analysis

Word Lemma Parse
नारायणो नारायण pos=n,g=m,c=1,n=s
अपि अपि pos=i
इषु इषु pos=n,comp=y
वर वर pos=a,comp=y
अशनि अशनि pos=n,g=f,c=3,n=p
विदारयामास विदारय् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,comp=y
प्रमुक्तैः प्रमुच् pos=va,g=m,c=3,n=p,f=part
नक्तंचरान् नक्तंचर pos=n,g=m,c=2,n=p
मुक्त मुच् pos=va,comp=y,f=part
विधूत विधू pos=va,comp=y,f=part
केशान् केश pos=n,g=m,c=2,n=p
यथा यथा pos=i
अशनि अशनि pos=n,g=f,c=3,n=p
pos=i
तडित् तडित् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s