Original

गदयाभिहतस्तेन मालिना गरुडो भृशम् ।रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ३५ ॥

Segmented

गदया अभिहतः तेन मालिना गरुडो भृशम् रणात् पराङ्मुखम् देवम् कृतवान् वेदना-आतुरः

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
मालिना मालिन् pos=n,g=m,c=3,n=s
गरुडो गरुड pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
रणात् रण pos=n,g=m,c=5,n=s
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
वेदना वेदना pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s