Original

तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् ।अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ २ ॥

Segmented

तस्मिन् निर्मानुषे ऽरण्ये कुर्वन् तपः उत्तमम् अहम् आक्रमितुम् सौम्य तद् अरण्यम् उपागमम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
निर्मानुषे निर्मानुष pos=a,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आक्रमितुम् आक्रम् pos=vi
सौम्य सौम्य pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
उपागमम् उपगम् pos=v,p=1,n=s,l=lun