Original

एकेषुपातेन भयं निहत्य लोकत्रयस्यास्य रघुप्रवीरः ।विनिर्बभावुद्यतचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३८ ॥

Segmented

एक-इषु-पातेन भयम् निहत्य लोकत्रयस्य अस्य रघु-प्रवीरः विनिर्बभौ उद्यत-चाप-बाणः तमः प्रणुद्य इव सहस्ररश्मिः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
इषु इषु pos=n,comp=y
पातेन पात pos=n,g=m,c=3,n=s
भयम् भय pos=n,g=n,c=2,n=s
निहत्य निहन् pos=vi
लोकत्रयस्य लोकत्रय pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
रघु रघु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
विनिर्बभौ विनिर्भा pos=v,p=3,n=s,l=lit
उद्यत उद्यम् pos=va,comp=y,f=part
चाप चाप pos=n,comp=y
बाणः बाण pos=n,g=m,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s
प्रणुद्य प्रणुद् pos=vi
इव इव pos=i
सहस्ररश्मिः सहस्ररश्मि pos=n,g=m,c=1,n=s