Original

तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना ॥ १८ ॥

Segmented

तम् उवाच अथ शत्रुघ्नः क्व मे जीवन् गमिष्यसि दुर्बलो अपि आगतः शत्रुः न मोक्तव्यः कृतात्मना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
क्व क्व pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
अपि अपि pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
मोक्तव्यः मुच् pos=va,g=m,c=1,n=s,f=krtya
कृतात्मना कृतात्मन् pos=a,g=m,c=3,n=s