Original

इति माली सुमाली च माल्यवानग्रजः प्रभुः ।उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते ।युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥ ३९ ॥

Segmented

इति माली सुमाली च माल्यवान् अग्रजः प्रभुः उद्योगम् घोषयित्वा अथ राक्षसाः सर्व एव ते युद्धाय निर्ययुः क्रुद्धा जम्भ-वृत्र-बलाः इव

Analysis

Word Lemma Parse
इति इति pos=i
माली मालिन् pos=n,g=m,c=1,n=s
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
pos=i
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
अग्रजः अग्रज pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
घोषयित्वा घोषय् pos=vi
अथ अथ pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
जम्भ जम्भ pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
इव इव pos=i