Original

यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ १४ ॥

Segmented

यत् च तस्य महत् शूलम् त्र्यम्बकेण महात्मना दत्तम् शत्रु-विनाशाय मधोः आयुधम् उत्तमम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
त्र्यम्बकेण त्र्यम्बक pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
मधोः मधु pos=n,g=m,c=6,n=s
आयुधम् आयुध pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s