Original

देववत्यां सुकेशस्तु जनयामास राघव ।त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ ५ ॥

Segmented

देववत्याम् सुकेशः तु जनयामास राघव त्रीन् त्रिनेत्र-समान् पुत्रान् राक्षसान् राक्षस-अधिपः माल्यवन्तम् सुमालिम् च मालिम् च बलिनाम् वरम्

Analysis

Word Lemma Parse
देववत्याम् देववती pos=n,g=f,c=7,n=s
सुकेशः सुकेश pos=n,g=m,c=1,n=s
तु तु pos=i
जनयामास जनय् pos=v,p=3,n=s,l=lit
राघव राघव pos=n,g=m,c=8,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
त्रिनेत्र त्रिनेत्र pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
माल्यवन्तम् माल्यवन्त् pos=n,g=m,c=2,n=s
सुमालिम् सुमालि pos=n,g=m,c=2,n=s
pos=i
मालिम् मालि pos=n,g=m,c=2,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s