Original

विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः ।सहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम् ॥ २५ ॥

Segmented

विश्वकर्म-वचः श्रुत्वा ततस् ते राम राक्षसाः सहस्र-अनुचराः गत्वा लङ्काम् ताम् अवसन् पुरीम्

Analysis

Word Lemma Parse
विश्वकर्म विश्वकर्मन् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
अनुचराः अनुचर pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवसन् वस् pos=v,p=3,n=p,l=lan
पुरीम् पुरी pos=n,g=f,c=2,n=s