Original

लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २४ ॥

Segmented

लङ्का-दुर्गम् समासाद्य राक्षसैः बहुभिः वृताः भविष्यथ दुराधर्षाः शत्रूणाम् शत्रु-सूदनाः

Analysis

Word Lemma Parse
लङ्का लङ्का pos=n,comp=y
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
भविष्यथ भू pos=v,p=2,n=p,l=lrt
दुराधर्षाः दुराधर्ष pos=a,g=m,c=1,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
सूदनाः सूदन pos=a,g=m,c=8,n=p