Original

इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह ।गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः ॥ १९ ॥

Segmented

इमाम् भवत्यः पश्यन्तु स्नेहेन परमेण ह गौरवात् मे वाक्यस्य पूज्या वो ऽस्तु विशेषतः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
भवत्यः भवत् pos=a,g=f,c=1,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
परमेण परम pos=a,g=m,c=3,n=s
pos=i
गौरवात् गौरव pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
पूज्या पूजय् pos=va,g=f,c=1,n=s,f=krtya
वो त्वद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विशेषतः विशेषतः pos=i