Original

सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः ।प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरग्र्यधीः ॥ १ ॥

Segmented

सीताम् तु रुदतीम् दृष्ट्वा ये तत्र मुनि-दारकाः प्राद्रवन् यत्र भगवान् आस्ते वाल्मीकिः अग्र्य-धीः

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
तु तु pos=i
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मुनि मुनि pos=n,comp=y
दारकाः दारक pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
यत्र यत्र pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
अग्र्य अग्र्य pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s