Original

अयं तु विजयः सौम्य दशग्रीववधाश्रितः ।भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ ॥ ८ ॥

Segmented

अयम् तु विजयः सौम्य दशग्रीव-वध-आश्रितः भूयिष्ठम् स्व-पुरे पौरैः कथ्यते पुरुष-ऋषभ

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
विजयः विजय pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
दशग्रीव दशग्रीव pos=n,comp=y
वध वध pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
स्व स्व pos=a,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
पौरैः पौर pos=n,g=m,c=3,n=p
कथ्यते कथय् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s