Original

नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः ।सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ५७ ॥

Segmented

न अर्जुनः खेदम् आप्नोति न राक्षस-गण-ईश्वरः समम् आसीत् तयोः युद्धम् यथा पूर्वम् बलि-इन्द्रयोः

Analysis

Word Lemma Parse
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
खेदम् खेद pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
राक्षस राक्षस pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
समम् सम pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
बलि बलि pos=n,comp=y
इन्द्रयोः इन्द्र pos=n,g=m,c=6,n=d