Original

सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥ ११ ॥

Segmented

सव्येतर-कर-अङ्गुल्या स शब्दम् च दशाननः वेग-प्रभवम् अन्वेष्टुम् सो अदिशत् शुक-सारणौ

Analysis

Word Lemma Parse
सव्येतर सव्येतर pos=a,comp=y
कर कर pos=n,comp=y
अङ्गुल्या अङ्गुलि pos=n,g=f,c=3,n=s
pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
दशाननः दशानन pos=n,g=m,c=1,n=s
वेग वेग pos=n,comp=y
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
अन्वेष्टुम् अन्विष् pos=vi
सो तद् pos=n,g=m,c=1,n=s
अदिशत् दिश् pos=v,p=3,n=s,l=lan
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=2,n=d