Original

स तस्याः पुलिने रम्ये नानाकुसुमशोभिते ।उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः ।नर्मदा दर्शजं हर्षमाप्तवान्राक्षसेश्वरः ॥ २३ ॥

Segmented

स तस्याः पुलिने रम्ये नाना कुसुम-शोभिते उपोपविष्टः सचिवैः सार्धम् राक्षस-पुंगवः नर्मदा-दर्श-जम् हर्षम् आप्तवान् राक्षसेश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पुलिने पुलिन pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
नाना नाना pos=i
कुसुम कुसुम pos=n,comp=y
शोभिते शोभय् pos=va,g=n,c=7,n=s,f=part
उपोपविष्टः उपोपविश् pos=va,g=m,c=1,n=s,f=part
सचिवैः सचिव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
नर्मदा नर्मदा pos=n,comp=y
दर्श दर्श pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s