Original

बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः ।यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे ॥ ६ ॥

Segmented

बलवान् शत्रु-निर्जेता भविष्यति एष राक्षसः यम् आश्रित्य त्वया राजन् स्थापिताः त्रिदशाः वशे

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निर्जेता निर्जेतृ pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्थापिताः स्थापय् pos=va,g=m,c=1,n=p,f=part
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
वशे वश pos=n,g=m,c=7,n=s