Original

एतदिन्द्रजितो राम बलं यत्कीर्तितं मया ।निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः ॥ ४२ ॥

Segmented

एतद् इन्द्रजितो राम बलम् यत् कीर्तितम् मया निर्जितः तेन देव-इन्द्रः प्राणिनो ऽन्ये च किम् पुनः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
इन्द्रजितो इन्द्रजित् pos=n,g=m,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i