Original

ततस्तमसि संजाते राक्षसा दैवतैः सह ।अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥

Segmented

ततस् तमसि संजाते राक्षसा दैवतैः सह अयुध्यन्त बल-उन्मत्ताः सूदयन्तः परस्परम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तमसि तमस् pos=n,g=n,c=7,n=s
संजाते संजन् pos=va,g=n,c=7,n=s,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
बल बल pos=n,comp=y
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
सूदयन्तः सूदय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s