Original

एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २७ ॥

Segmented

एतस्मिन्न् अन्तरे शूरो दशग्रीवः प्रतापवान् आरुरोह रथम् दिव्यम् निर्मितम् विश्वकर्मणा

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
निर्मितम् निर्मा pos=va,g=m,c=2,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s