Original

हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः ।गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ३८ ॥

Segmented

हत्वा तु संयुगे तस्य रथम् बाण-शतैः शितैः गदाम् तस्य वध-अर्थाय वसुः जग्राह पाणिना

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
वसुः वसु pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s