Original

रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः ।राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् ॥ ३६ ॥

Segmented

रथैः नागैः खरैः उष्ट्रैः हयैः दीप्तैः महा-उरगैः राक्षसाः प्रययुः सर्वे कृत्वा आकाशम् निरन्तरम्

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
खरैः खर pos=n,g=m,c=3,n=p
उष्ट्रैः उष्ट्र pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
आकाशम् आकाश pos=n,g=n,c=2,n=s
निरन्तरम् निरन्तर pos=a,g=n,c=2,n=s