Original

ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।आजगाम द्रुतं देवो विमानवरमास्थितः ॥ ८ ॥

Segmented

ततः पितामहः तत्र त्रैलोक्य-गतिः अव्ययः आजगाम द्रुतम् देवो विमान-वरम् आस्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
द्रुतम् द्रुतम् pos=i
देवो देव pos=n,g=m,c=1,n=s
विमान विमान pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part