Original

दर्शनादेव यः प्राणान्प्राणिनामुपरुध्यति ।किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः ॥ २९ ॥

Segmented

दर्शनाद् एव यः प्राणान् प्राणिनाम् उपरुध्यति किम् पुनः ताडनात् वा अपि पीडनाद् वा अपि देहिनः

Analysis

Word Lemma Parse
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
उपरुध्यति उपरुध् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
ताडनात् ताडन pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
पीडनाद् पीडन pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
देहिनः देहिन् pos=n,g=m,c=6,n=s