Original

ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः ।ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः ॥ १९ ॥

Segmented

ततः क्रुद्धस्य सहसा यमस्य अभिविनिःसृतः ज्वाला-मालः विनिश्वासो वदनात् क्रोध-पावकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
सहसा सहसा pos=i
यमस्य यम pos=n,g=m,c=6,n=s
अभिविनिःसृतः अभिविनिःसृ pos=va,g=m,c=1,n=s,f=part
ज्वाला ज्वाला pos=n,comp=y
मालः माला pos=n,g=m,c=1,n=s
विनिश्वासो विनिश्वास pos=n,g=m,c=1,n=s
वदनात् वदन pos=n,g=n,c=5,n=s
क्रोध क्रोध pos=n,comp=y
पावकः पावक pos=n,g=m,c=1,n=s