Original

दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा ।सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २५ ॥

Segmented

दत्त्वा तु स गतो राजा स्वम् आश्रम-पदम् तदा सा अपि तत्र अवसत् कन्या तोषयन्ती पतिम् गुणैः प्रीतः स तु महा-तेजाः वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
तदा तदा pos=i
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
तत्र तत्र pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
कन्या कन्या pos=n,g=f,c=1,n=s
तोषयन्ती तोषय् pos=va,g=f,c=1,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i