Original

दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।तां तां योनिं समापन्नास्तस्य धर्षणभीरवः ॥ ४ ॥

Segmented

दृष्ट्वा देवाः तु तद् रक्षो वर-दानेन दुर्जयम् ताम् ताम् योनिम् समापन्नाः तस्य धर्षण-भीरवः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
दुर्जयम् दुर्जय pos=a,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
समापन्नाः समापद् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=n,c=6,n=s
धर्षण धर्षण pos=n,comp=y
भीरवः भीरु pos=a,g=m,c=1,n=p