Original

यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ।तेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता ॥ २७ ॥

Segmented

यदि तु अस्ति मया किंचित् कृतम् दत्तम् हुतम् तथा तेन हि अयोनिजा साध्वी भवेयम् धर्मिणः सुता

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हुतम् हु pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
तेन तेन pos=i
हि हि pos=i
अयोनिजा अयोनिज pos=a,g=f,c=1,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
धर्मिणः धर्मिन् pos=a,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s