Original

ततः पार्श्वमुपागम्य भवस्यानुचरो बली ।नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः ॥ ७ ॥

Segmented

ततः पार्श्वम् उपागम्य भवस्य अनुचरः बली नन्दीश्वर उवाच इदम् राक्षस-इन्द्रम् अशङ्कितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
भवस्य भव pos=n,g=m,c=6,n=s
अनुचरः अनुचर pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
नन्दीश्वर नन्दीश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अशङ्कितः अशङ्कित pos=a,g=m,c=1,n=s