Original

ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत् ।मही चकम्पे न च मारुता ववुः स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ ३१ ॥

Segmented

ततः प्रजग्मुः प्रशमम् मरुत्-गणाः दिशः प्रसेदुः विमलम् नभः अभवत् मही चकम्पे न च मारुता ववुः स्थिर-प्रभः च अपि अभवत् दिवाकरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
प्रसेदुः प्रसद् pos=v,p=3,n=p,l=lit
विमलम् विमल pos=a,g=n,c=1,n=s
नभः नभस् pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
pos=i
मारुता मारुत pos=n,g=m,c=1,n=p
ववुः वा pos=v,p=3,n=p,l=lit
स्थिर स्थिर pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s