Original

ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६ ॥

Segmented

ततः शर-सहस्राणि क्षिप्र-हस्तः निशाचरः निजघान उरसि क्रुद्धो राघवस्य महात्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s