Original

तान्दृष्ट्वा भस्मसाद्भूताञ्शूलसंस्पर्शचूर्णितान् ।सायकानन्तरिक्षस्थान्राघवः क्रोधमाहरत् ॥ २३ ॥

Segmented

तान् दृष्ट्वा भस्मसात् भूतान् शूल-संस्पर्श-चूर्णितान् सायकान् अन्तरिक्ष-स्थान् राघवः क्रोधम् आहरत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भस्मसात् भस्मसात् pos=i
भूतान् भू pos=va,g=m,c=2,n=p,f=part
शूल शूल pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
चूर्णितान् चूर्णय् pos=va,g=m,c=2,n=p,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
राघवः राघव pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan