Original

तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ।विषादविमुखाः सर्वे बभूवुर्गतचेतसः ॥ ४ ॥

Segmented

ते ऽर्दिता बाण-वर्षेण महापार्श्वेन वानराः विषाद-विमुखाः सर्वे बभूवुः गत-चेतसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्दिता अर्दय् pos=va,g=m,c=1,n=p,f=part
बाण बाण pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महापार्श्वेन महापार्श्व pos=n,g=m,c=3,n=s
वानराः वानर pos=n,g=m,c=1,n=p
विषाद विषाद pos=n,comp=y
विमुखाः विमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p