Original

द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् ।महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः ॥ १४ ॥

Segmented

द्वाभ्याम् भुजाभ्याम् संगृह्य भ्रामयित्वा च वेगवान् महापार्श्वाय चिक्षेप वध-अर्थम् वालिनः सुतः

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
संगृह्य संग्रह् pos=vi
भ्रामयित्वा भ्रामय् pos=vi
pos=i
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
महापार्श्वाय महापार्श्व pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s