Original

ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।वानराणामनीकेषु चकार कदनं महत् ॥ ४० ॥

Segmented

ततः क्रुद्धो दशग्रीवः शरैः काञ्चन-भूषणैः वानराणाम् अनीकेषु चकार कदनम् महत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
चकार कृ pos=v,p=3,n=s,l=lit
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s