Original

संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः ॥ ३ ॥

Segmented

संदश्य दशनैः ओष्ठम् क्रोध-संरक्त-लोचनः राक्षसैः अपि दुर्दर्शः कालाग्निः इव मूर्छितः

Analysis

Word Lemma Parse
संदश्य संदंश् pos=vi
दशनैः दशन pos=n,g=m,c=3,n=p
ओष्ठम् ओष्ठ pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुर्दर्शः दुर्दर्श pos=a,g=m,c=1,n=s
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part