Original

ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः ।अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥ ८ ॥

Segmented

ते गदाभिः विचित्राभिः प्रासैः खड्गैः परश्वधैः अन्योन्यम् समरे जघ्नुः तदा वानर-राक्षसाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
वानर वानर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p