Original

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः ।पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ २४ ॥

Segmented

ते तु राम-सहस्राणि रणे पश्यन्ति राक्षसाः पुनः पश्यन्ति काकुत्स्थम् एकम् एव महा-आहवे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
राम राम pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s