Original

ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे ॥ ७ ॥

Segmented

ननु त्वम् इषुभिः क्रुद्धो भिन्द्याः काल-अन्तकौ अपि मन्दरस्य अपि शृङ्गाणि किम् पुनः लक्ष्मणम् रणे

Analysis

Word Lemma Parse
ननु ननु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भिन्द्याः भिद् pos=v,p=2,n=s,l=vidhilin
काल काल pos=n,comp=y
अन्तकौ अन्तक pos=n,g=m,c=2,n=d
अपि अपि pos=i
मन्दरस्य मन्दर pos=n,g=m,c=6,n=s
अपि अपि pos=i
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s